|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.305. अध्यायः 305
Mahabharata - Vana Parva - Chapter Topics
कुन्त्या सावधानं परिचर्यया दुर्वाससः परितोपणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
कुन्त्युवाच। 3-305-0x(2831)(27668)
ब्राह्मणं यन्त्रिता राजन्नुपस्थास्यामि पूजया।
यथाप्रतिज्ञं राजेन्द्रन च मिथ्या ब्रवीम्यहम् ॥ 3-305-1(27669)
एष चैव स्वभावो मे पूजयेयं द्विजानिति।
तव चैव प्रियं कार्यं श्रेयश्च परमं मम ॥ 3-305-2(27670)
यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि।
यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति ॥ 3-305-3(27671)
लाभो ममैष राजेन्द्र यद्वैपूजयितुं द्विजान्।
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम ॥ 3-305-4(27672)
विस्रब्धो भवराजेन्द्र न व्यलीकं द्विजोत्तमः।
वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते ॥ 3-305-5(27673)
यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ।
यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः ॥ 3-305-6(27674)
ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते।
तारणाय समर्थाः स्युर्विपरीते वधाय च ॥ 3-305-7(27675)
रसाऽहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम्।
न मत्कृतेव्यथां राजन्प्राप्स्यसि द्विजसत्तमात् ॥ 3-305-8(27676)
अपराधेऽपि राजेन्द्र राज्ञामश्रेयसे द्विजाः।
भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा ॥ 3-305-9(27677)
नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम्।
यथा त्वया नरेन्द्रेदं भापितं ब्राह्मणं प्रति ॥ 3-305-10(27678)
एवं ब्रुवन्तीं बहुशः परिष्वज्य समर्थ्य च।
इतिचेति च क्रतव्यं राजा सर्वमथादिशत् ॥ 3-305-11(27679)
एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया।
मद्धितार्थं तथाऽऽत्मार्थंकुलार्थं चाप्यनिन्दिते ॥ 3-305-12(27680)
एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः।
पृथां परिददौ तस्मै द्विजाय द्विजवत्सलः ॥ 3-305-13(27681)
इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता।
अपराध्येत यत्किंचिन्न कार्यं हृदि तत्त्वया ॥ 3-305-14(27682)
द्विजातयो महाभागा वृद्धबालतपस्विषु।
भवन्त्यक्रोधनाः प्रायो ह्यपराद्धेषु नित्यदा ॥ 3-305-15(27683)
सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः।
यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम ॥ 3-305-16(27684)
तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः।
हंसचन्द्रांशुसंकाशं गृहमस्मै न्यवेदयत् ॥ 3-305-17(27685)
तत्राग्निशरणे क्लृप्तमासनं तस्य भानुमत्।
आहारादि च सर्वं तत्तथैव प्रत्यवेदयत् ॥ 3-305-18(27686)
निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च।
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने ॥ 3-305-19(27687)
तत्रसा ब्राह्मणं गत्वा पृथा शौचपरा सती।
विधिवत्परिचारार्हं देववत्पर्यतोषयत् ॥ 3-305-20(27688)
इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि पञ्चाधिकत्रिशततमोऽध्यायः ॥ 305 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-305-1 यन्त्रिता नियमयुक्ता ॥ 3-305-5 विस्रब्धो विश्वस्तः। रव्यलीकमप्रियम् ॥ 3-305-18 अग्निशरणे अग्निगृहे ॥ 3-305-19 तन्द्रीं आलस्यम् ॥ 3-305-20 परिचारार्हं पूजार्हम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|